________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।५८८॥
॥ ५८९ ॥
॥ ५९० ॥
॥ ५९१ ॥
लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च । वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः वृषे वाहा तु वाहौ स्याद् व्यूहौ निर्वाणतर्कयोः । समूहे बलविन्यासे सहः क्षमे बलेऽपि च सहोल् सहदेवायां कुगार्यां नखभेषजे । मुद्गपर्यां च सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि । वासाबृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके
अथः त्रिस्वर: तृतीयः काण्ड: अणुको निपुणेऽल्पे चाशोकौ कङ्केल्लिव लौ । निःशोकपारदौ चाऽप्यशोका तु कटुरोहिणी अभीको निर्भये कमेऽप्यनीकं रणसैन्ययोः । अलीकमप्रिये भाले वितथेऽनूकमन्वये शीलेऽनूको गतजन्मन्यंशुकं श्लक्ष्णवाससि । उत्तरीये वस्त्रमात्रेऽप्यलकाचूर्णकुन्तलाः अलका तु कुबेरस्य नग-मन्तिकं पुनः । पार्श्वेऽन्तिका तु चुल्ल्यां स्यात्सातलाख्यौषधेऽपि च अलर्को धवलार्के स्याद्योगोन्मादितशुन्यपि । अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि अन्धिका तु कैतवे स्यात्सर्षपीमिद्धयोरपि । अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च
॥ २॥
॥३॥
॥४॥
॥६॥
२००
For Private And Personal Use Only