SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५५२॥ ॥ ५५३ ॥ ॥५५४ ।। ॥ ५५५ ।। ।। ५५६ ॥ ॥ ५५७॥ चुल्लीरन्ध्रे बले पार्वे वर्गे केशात्परश्चये। पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे प्लक्षो दीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके । प्रेक्षाधीरीक्षणं नृतं प्रैषः प्रेषणपीडने पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः । भिक्षा सेवाप्रार्थनयो तौ भिक्षितवस्तुनि माषो माने धान्यभेदे मूर्ख त्वग्दोषभिद्यपि । मिषं व्याजे स्पर्द्धने च मेषो राश्यन्तरे हुडौ मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ । यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशख्ययोः । संख्यायामपि वर्षस्तु समाद्विपांशवृष्टिषु वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले। क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च । श्रेष्ठे स्यादुत्तरस्थश्च वृषी तु व्रतिविष्टरे वृषा पुनः कपिकच्छ्वां शुषिः शुषिरशोषयोः । शेषोऽनन्ते वधे सीरिण्युपयुक्तेतरेऽपि च शेषा निर्माल्यदाने स्याच्छोष: शोषणयक्ष्मणोः । अचिर्मयूखशिखयोरदोऽत्र च परत्र च आगः स्यादेनोवदघे मन्तावाशीहितैषणे । उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजस्यौकस्तु सद्मनि ॥ ५५८॥ ॥ ५५९ ॥ ।। ५६० ॥ ॥ ५६१ ॥ ॥ ५६२॥ ॥ ५६३॥ ૧૦. For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy