SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ५४०॥ ॥५४१॥ ॥ ५४२ ॥ ॥५४३ ॥ ॥ ५४४॥ ॥ ५४५ ॥ वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः । वशा ना- वन्ध्यगव्यां, हस्तिन्यां दुहितर्यपि वंशः सोऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च । वेशो वेश्यागृहे गेहे, नेपथ्ये च शशः पशौ बोले लोध्रे नृभेदे च, स्पशो हेरिकयुद्धयोः । स्पर्शो वर्गाक्षरे दाने, स्पर्शने स्पर्शके रुजि अक्षो रथस्यावयवे, व्यवहारे बिभीतके। प्रासके शकटे कर्षे, ज्ञाने चात्मनि रावणौ अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि । बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः महीधरविशेषे च शोणके क्षतवेधने। ऋषिर्वेदे मुनौ कर्षः कर्षणे मानभिद्यपि कक्षो वीरुधि दोर्मूले कच्छे, शुष्कवने तृणे । पापे कक्षा त्विभरज्जौ काञ्चयां गेहप्रकोष्ठके भित्तौ साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले। उद्ग्राहिण्यां च कर्पूस्तु तुषाग्नौ कृषिकुल्ययोः घोष: कांस्ये स्वने गोपघोषकाभीरपल्लिषु । घोषा तु शतपुष्पायां चोक्षः सुन्दरगीतयोः शुचौ झषस्तु मकरे वने मीने झषा पुनः । नागवलायां तुषस्तु धान्यत्वचि बिभीतके दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेऽर्थिनि गृहे ध्वाङ्क्षी तु कक्कोल्यां न्यक्ष: कात्य॑निकृष्टयोः । जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥ ५४६॥ ॥ ५४७॥ ॥ ५४८ ॥ ॥५४९ ॥ ॥५५० ॥ ॥ ५५१ ॥ १८६ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy