________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्फारस्तु स्फरकादीनां बुद्बुदे विपुलेऽपि च । स्थिरो मोक्षे निश्चले च, स्थिरा भूः शालपर्ण्यपि सिप्रः स्वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी । सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि लाङ्गुलेऽथ सुरो देवे, सुरा चषकमद्ययोः । सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः स्वैरो मन्दे स्वतन्त्रे च, हरो रासभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः यमवासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवर्णे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु लोकान्तरे च हारस्तु मुक्तादामनि संयुगे । हिंस्रः स्याद् घातुके हिंस्रा मांसा काकादनी वसा हीरो वज्रे हरे सर्पे हीरा पिपीलिकाप्रियोः । होरा तु लग्ने राश्यर्द्धे शास्त्ररेखाप्रभेदयोः अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे । अम्ली चाङ्गेर्यामालं स्यादनर्थहरितालयोः आलिः सख्यावलीसेत्वनर्थेषु विशदाशये । आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः इलोर्वी वाग् बुधस्त्री गौ: कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने कला स्यात्कालशिल्पयोः
कलने मूलरैवृद्धौ षोडशांशे विधोरपि । कलिबिभीतके शूरे, विवादेऽन्त्ययुगे युधि कालः पुनः कृष्णवर्णे महाकालकृतान्तयोः । मरणाने हसोः काली कालिकाक्षीरकीटयोः
૧૮૯
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४५६ ॥
॥। ४५७ ॥
॥। ४५८ ॥
।। ४५९ ।।
॥ ४६० ॥
॥ ४६१ ॥
॥ ४६२ ॥
॥ ४६३ ॥
॥ ४६४ ॥
॥ ४६५ ॥
॥ ४६६ ॥
॥ ४६७ ॥