SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ३९६ ॥ ॥ ३९७ ॥ ॥ ३९८॥ ॥ ३९९ ॥ ॥४०० ॥ ॥ ४०१ ॥ केदारे सिद्धभूपन्योः, कोष्ट्री क्षीरविदारिका । शृगालिका लाङ्गली च, क्षौद्रं तु मधुनीरयो: खरो रक्षोऽन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च । खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च खुरः शफे कोलदले गरस्तूपविषे विषे। रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः गजानदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके। शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके। गुरुर्महत्याङ्गिरसे, पित्रादौ धर्मदेशके अलघौ दुर्जर चापि, गृद्धो गृध्नौ खगान्तरे । गोत्रं क्षेत्रेऽन्वये छत्रे, सम्भाव्यबोधवर्त्मनोः वने नाम्नि च गोत्रोऽद्रौ, गोत्रा भुवि गवाङ्गणे । गौरः श्वेतेऽरुणे पीते, विशुद्धे चन्द्रमस्यपि विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे । गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः । घोरो हरे दारुणे च चर: स्याज्जङ्गमे स्पशे चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे। कुलालाधुपकरणे राष्ट्रे सैन्यरथाङ्गयोः जलावर्ते छले चक्र: कोके चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ कपुर कम्पिल्ये मेचकेऽपि च चरुर्हव्याने भाण्डे च चारो बन्धावसर्पयोः । गतौ पियालवृक्षे च, चित्रं खे तिलकेऽद्भुते || ४०२॥ ॥ ४०३॥ || ४०४॥ ॥ ४०५ ॥ ॥ ४०६ ॥ ॥४०७।। ૧૮૪ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy