SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ३४८॥ ॥ ३४९ ॥ || ३५० ॥ ॥ ३५१॥ ॥ ३५२ ॥ ॥ ३५३ ॥ गृह्या तु शाखानगरे, गेयौ गातव्यगायनौ । गोप्यौ दासेरगोप्तव्यौ, चयः प्राकारपीठभूः समूहेऽप्यथ चव्या स्याच्चविकाशतपर्वयोः। चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि चैत्यं जिनौकस्तबिम्बं, चैत्यो जिनसभातरुः । उद्देशवृक्षश्चोद्यं तु, प्रेर्ये प्रश्नेऽद्भुतेऽपि च छायापङ्क्तौ प्रतिमायामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ, शोभायां च तमस्यपि जयो जयन्ते विजये, जयोमा तत्सखी तिथिः । पथ्या जयन्त्यग्निमन्थे, जन्यो जामातृवत्सले जनके जननीये च नवोढानुचरादिके। जन्यं कोलीने युध्यट्टे जन्या मातृसखीमुदो: त्रयी त्रिवेद्यां त्रितये, पुरन्ध्यां सुमतावपि । तार्श्वस्तु स्यन्दने वाहे, गरुडे गरुडाग्रजे अश्वकर्णाह्वयतरौ स्यात्तायं तु रसाञ्जने । तिष्यः पुष्यवत्कलौ भे, तिष्या त्वामलकीतरौ द्रव्यं भव्ये धने क्ष्मादौ, जतुद्रुमविकारयोः । विनये भेषजे री- दस्युः प्रत्यर्थिचौरयोः दायो दाने यौतकादिधने सोल्लुण्ठभाषणे । विभक्तव्ये पितृद्रव्ये, दिव्यं वल्गुलवङ्गयोः धुभवे दिव्यामलक्यां, दूष्यं वाससि तद्गृहे। दूषणीये चाथ दैत्योऽसुरे दैत्या मुरौषधौ धन्यः पुण्ययुते धन्यामलक्यामुपमातरि । धान्यं तु व्रीहौ धन्याके धिष्ण्यं स्थानोडुवेश्मसु || ३५४ ॥ ॥ ३५५ ॥ ॥ ३५६ ॥ ॥ ३५७ ॥ ॥ ३५८ ॥ ॥३५९ ॥ ૧૮૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy