________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१२॥
॥ ३१३॥
॥ ३१४॥
॥ ३१५ ॥
॥ ३१६ ।।
।। ३१७॥
कृमि: क्रिमिश्च लाक्षायां, कोटे क्षेमस्तु मङ्गले। लब्धरक्षणे मोक्षे च, क्षेमोमा धनहर्यपि क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपि च । खर्मं क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः सदृक्पाठेप्यथ ग्रामो, वृन्दे शब्दादिपूर्वकः । खड्गादौ संवसथे च, गुल्म: सैन्योपरक्षणे रुक्सैन्यघट्टभेदेषु, स्तम्बे गुल्मी पौकसि । आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जाल्मस्तु पामरे। असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः जिह्मः कुटिले मन्दे च, जिद्मं तगरपादपे। तोक्मं कर्णमले तोक्मः, स्याद्धरिते हरिद्यवे दम: स्यात्कर्दमे दण्डे, दमने दमथेऽपि च । दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि धर्म दानादिके नेमस्त्वर्धे प्राकारगतयोः । अवधौ केतवे काले, नेमिः कूपत्रिकाप्रधेः तिनिशोऽरिष्टनेमिश्च, पद्म व्यूहे निधावहौ । संख्याब्जयोः पद्ममिभबिन्दौ ब्राह्मी तु भारती शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी। ब्रह्मशक्तिर्धमस्तु स्याद् भ्रमणे वारिनिर्गमे भ्रान्तौ कुन्दाख्ययन्त्रे च, भीमो घोरे वृकोदरे। हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः
॥ ३१८ ॥
॥ ३१९॥
॥ ३२० ॥
॥ ३२१ ॥
॥ ३२२ ॥
॥ ३२३ ॥
१७७
For Private And Personal Use Only