SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " डिम्ब एरण्डभययोर्विप्लवे प्लीह्नि पुप्फुसे । बम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले शम्बः पवौ लोहकाच्यां स्तम्ब आलानगुल्मयोः । व्रीह्मादीनां प्रकाण्डे च, कुम्भो वेश्यापतौ घटे द्विपाने राक्षसे राशौ कुम्भं त्रिवृतिगुग्गुलौ । कुम्भ्युखायां पाटलायां वारिपर्ण्य च कट्वफले गर्भः कुक्षौ शिशौ सन्धौ, भ्रूणे पनसकण्टके । मध्येऽग्नावपवरके, जम्भः स्याद्दानवान्तरे दन्तभोजनयोरंशे नौ जम्बीरतूणयोः । जृम्भा जृम्भणे विकासे, डिम्भो वैधेयबालयो दम्भ: कल्के कैतवे च, नाभिः क्षत्रप्रधानयोः । चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराजि च निभः स्यात्सदृशे व्याजे, रम्भो वैणवदण्डके । रम्भा त्रिदशभामिन्यां, कदल्यां च विभुः प्रभौ व्यापके शङ्करे नित्ये, शम्भुर्ब्रह्मार्हतो : शिवे । शुभो योगे शुभं भद्रे, स्तम्भः स्थूणाङ्गजाड्ययोः सभा सभ्येषु शालायां, गोष्ठ्यां द्यूतसमूहयोः । स्वभूर्विष्णौ विधावामोऽपक्वे रुग्भेदरोगयोः उमा गौय हरिद्रायां कीर्तिकान्त्यतसीष्वपि । ऊर्मिः पीडा जवोत्कण्ठाभङ्गप्रकाशवीचिषु वस्त्रसंकोचलेखायां, क्रमः कल्पांहि - शक्तिषु । परिपाट्यां क्षमः शक्ते, हिते युक्ते क्षमावति क्षमा क्षान्तौ क्षितौ कामं, बाढेऽनुमितिरेतसोः । कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी ૧૬ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३०० ॥ ॥ ३०१ ॥ ॥ ३०२ ॥ ॥ ३०३ ॥ ॥ ३०४ ॥ ॥ ३०५ ॥ ॥ ३०६ ॥ ॥ ३०७ ॥ ॥ ३०८ ॥ ॥ ३०९ ॥ ॥ ३१० ॥ ॥ ३११ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy