SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २१६॥ ॥ २१७॥ ॥ २१८ ॥ 11 २१९ ।। ॥ २२०॥ ॥ २२१ ॥ प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रखौ मथि। साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे यूथी तु मागधीपुष्पविशेषयोः कुरण्टके । रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरूपके। संस्था स्पशे स्थितौ मृत्यौ सार्थो वृन्दे वणिग्गणे सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके। अब्द: संवत्सरे मेघे मुस्तके गिरिभिद्यपि अन्दू: स्यान्निगडे भूषाभेदे ककुदवत् ककुत्। श्रेष्ठे वृषाङ्गे राचिह्ने क्रव्यान्मांसाशिरक्षसोः कन्दोऽब्दे सूरणे सस्यमूले कुन्दोऽच्युते निधौ । चक्रभूमौ च माध्ये च क्षोद: पेषणचूर्णयोः गद: कृष्णानुजे रोगे गदा प्रहरणान्तरे । छदः पत्रे पतत्त्रे च ग्रन्थिपर्णतमालयोः छन्दो वशेऽभिप्राये च दृषत् पाषाणमात्रके। निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः नदो वहेऽब्धौ निनदे, नन्दा संपद्यलिञ्जरे। तिथिभेदेऽपि नन्दिस्तु, प्रतीहारे पिनाकिनः आनन्दने च धुते च निन्दा कुत्सापवादयोः । पदं स्थाने विभक्त्यन्ते, शब्दे वाक्येऽङ्कवस्तुनोः त्राणे पादे पादचिह्ने, व्यवसायापदेशयोः । पादो मूलातुर्यांशाघ्रिषु प्रत्यन्तपर्वते भद्रं कल्याणे सौख्ये च, भसद् भास्वरमांसयोः । भेदो विदारणे द्वैधे, उपजापविशेषयोः ॥ २२२॥ ॥ २२३ ॥ ॥ २२४॥ ।। २२५ ॥ ।। २२६ ॥ ।। २२७॥ ૧૬૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy