SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८०॥ ॥ १८१॥ ॥ १८२ ॥ ॥ १८३ ॥ ॥ १८४ ॥ ।। १८५ ।। भास्वान् दीप्रे खौ भ्रान्तिमिथ्याज्ञानेऽनवस्थितौ । भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः। भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि मांसपाकविशेषे च संपदुत्पादयोरपि । भृतिर्भरणमूल्ययोर्मतं तु संमतेऽचिते महबृहति धीतत्त्वे राज्ये मरुत्सुरेऽनिले। मतिर्बुद्धीच्छयोर्माता गौर्दुर्गाजननी मही मातरस्तु ब्रह्माण्याद्या मितिरैयत्यमानयोः । मुक्ता मौक्तिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृत्यौ याचिते च यन्ता सूते निषादिनि यतिनिकारे विरतौ भिक्षौ युतोऽन्विते पृथक् । युक्तिया॑ये योजने च रक्तं नील्यादिरञ्जिते कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले वैदादौ लोहकिट्टे सीमनि स्रवणे गतौ । लता ज्योतिष्मती दुर्वाशाखावल्लीप्रियङ्गुषु स्पृक्कामाधव्यो: कस्तूर्यां लिप्तं भुक्तविलिप्तयोः । विषाक्ते लूता तु रोगे पिपीलकोर्णनाभयोः वर्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च । दीपे भेषजनिर्माणे नयनाञ्जनलेखयो: व्यक्तो मनीषिस्फुटयोर्वार्ता वार्ताक्युदन्तयोः । कृष्यादौ वर्तने वार्तं त्वारोग्यारोगफल्गुषु ॥ १८६ ॥ ।। १८७ ॥ ॥ १८८॥ ॥ १८९ ॥ ॥ १९० ॥ ॥ १९१ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy