________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२० ॥
॥ १२१ ॥
॥ १२२ ॥
।। १२३ ॥
॥ १२४ ॥
॥ १२५ ॥
नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये । पण्ड: षण्ढे पण्डा बुद्धौ पाण्डु: कुन्तीपतौ सिते पिण्डो वृन्दे जपापुष्पे गोलबोलेऽङ्गसिहयोः । कवले पिण्डं तु वेश्मैकदेशे जीवनायसोः बले सान्द्रे पिण्ड्यलाबूखYोस्तगरेऽपि च । पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने। नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः । शाके मण्डा चामलक्यां मुण्डो मुण्डितशीर्षयोः राहौ दैत्यान्तरे रण्डात्वाखुकर्णी मृतप्रिया। व्याडो हिंस्रपशौ सर्प शुण्डा करिकरः सुरा जलेभी नलिनी वारस्त्री शुण्डो मदनिभरे । शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः षड: पेयान्तरे भेदे षण्ड: कानन इद्धरे। गूढं रहः संवृतयोर्दाढा दंष्ट्राभिलाषयोः दृढः शक्ते भृशे स्थूले, बाढं भृशप्रतिज्ञयोः । माढिदैन्यं पत्रशिरार्चा मूढस्तन्द्रिते जडे राढा सुमेषु शोभायां व्यूढा न्यस्तोरसंहताः । वोढा स्याद् भारिके सूते शण्डषण्डौ तु सौविदे वन्ध्यपुंसीद्धरे क्लीबे सोढा मर्षणशक्तयोः । अणिराणिवदश्रौ स्यात्सीगन्यक्षानकीलके अणु व्रीह्यल्पयोरुष्णा ग्रीष्मदक्षातपोऽहिमाः । ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि
॥ १२६ ॥
॥ १२७॥
॥ १२८ ॥
॥१२९ ॥
॥ १३० ।।
।। १३१ ॥
૧૬૧
For Private And Personal Use Only