________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८ ॥
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
।। ११३ ॥
हठोऽम्बुपयां प्रसभेऽण्डं पेशीकोशमुष्कयोः । ईडेलावत् स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे। सहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते । देवतोयाशये स्थाल्यां क्ष्वेड: कर्णामये ध्वनौ विषे वके क्ष्वेडा सिंहनादवंशशलाकयोः। क्ष्वेडं लोहितार्कफले घोषपुष्पे दुरासदे क्रोड कोले शनौ क्रोडमके खण्डोऽर्द्धमैक्षवे। मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः कपोले गण्डके योगे वाजिभूषणबुबुदे । गङः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः गुड: कुञ्जरसंनाहे गोलकेक्षुविकारयोः । गुडा तु गुडिका स्नुह्यो गोण्ड: स्याद् वृद्धनाभिके: पामरजातौ चण्डस्तु यमदासेऽतिकोपने । तीव्र दैत्यविशेषे च चण्डी तु शिवयोषिति चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोड: कञ्चुकदेशयोः जडो मूर्खे हिमाघ्राते जड़ा स्याच्छूकशिम्बिका। ताडोद्रौ ताडने धोषे मुष्टिमेयतृणादिके ताडी ताली दलतरौ दण्ड: सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वश्वेऽर्कानुचरे मथि प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः । नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः
॥ ११४ ॥
॥ ११५ ॥
।। ११६॥
।। ११७॥
॥११८ ॥
।। ११९ ॥
૧૬૦
For Private And Personal Use Only