________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ८४ ॥
।। ८५ ॥
॥ ८६॥
।। ८७॥
॥ ८८॥
॥ ८९ ।।
कोट्युत्कर्षाटनी संख्याश्रिषु खटस्तृणे कफे। टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे एकग्रहेऽथ खेटः स्याद् ग्रामभेदे कफेऽधमे । स्फरे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् वराहक्रान्ता च घटा घटने गजसंहतौ । गोष्ठ्यां घटस्त्विभशिरःकूटे समाधिकुम्भयोः घृष्टिः स्पर्धाघर्षणयोर्विष्णुकान्तावराहयोः । घोण्टा पूगबदरयोश्चटुश्चाटुपिचण्डयोः व्रत्यासने जटाकेशविकारे मांसिमूलयोः । झाट व्रणादिसंमाष्य कुन्तकान्तारयोरपि त्वष्टाऽर्के विश्वकृत्तक्ष्णोस्त्रुटि: संशयलेशयोः । सूक्ष्मैलायां कालमाने त्रोटिश्चञ्च्वां खगान्तरे मीनकज्जुलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च दृष्टिानेऽक्षिण दर्शने पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे। व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका रोधेऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च पुष्टिः स्यात् पोषणे वृद्धौ फटा तु कैतवे फणे । भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने शून्यवाद्यामथ म्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भाग्यां मधुयष्ट्यां ध्वजदण्डेऽस्त्रहारयोः रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः । वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः
॥ ९० ॥
॥ ९१ ॥
॥ ९२॥
॥ ९३॥
।। ९४ ॥
।। ९५ ॥
૧૫૮
For Private And Personal Use Only