SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे । भुजो बाहौ करे मर्जूः शुद्धौ च रजकेऽपि च राजी रेखायां पङ्क्तौ च रुजा त्वामयभङ्गयोः । लञ्जः पट्टे च कच्छे च लाजः स्यादार्द्रतण्डुलाः लाजास्तु भृष्टधान्ये स्युर्लाजं पुनरुशीरके । व्रजोऽध्वगोष्ठसङ्गेषु वणिग् वाणिज्यजीविनि वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ते वाजस्तु पक्षे मुनौ निस्वनवेगयोः व्याजः शाठ्येऽपदेशे च सज्जः संनद्धसंभृतौ । सञ्जः ब्रह्मशिवौ प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी यज्ञः स्यादात्मनि मखे नारायणहुताशयोः । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने चेतनाऽर्क स्त्रियोरट्टो हट्टाऽट्टालकयोर्भृशे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः । संग्रहश्लोकेऽथ को गजगण्डे कटौ भृशे शवे शवरथौषध्योः क्रियाकारश्मशानयोः । किलिञ्जे समये चापि कष्टं गहनकृच्छ्रयोः कट्वकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गसुरभिकटुकाराजिकास्वपि कुटः कोटे शिलाकुट्टे घटे गेहे कुटी मुरा । चित्रगुच्छ: कुम्भदासी कूटं पुर्द्वारयन्त्रयोः माया दम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ૧૫૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ७२ ।। ॥ ७३ ॥ 1198 11 ।। ७५ ।। ॥ ७६ ॥ ॥ ७७ ॥ ॥ ७८ ॥ ।। ७९ ।। 11 20 11 1168 11 ॥ ८२ ॥ ॥ ८३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy