________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६० ॥
॥६१ ॥
॥६२ ॥
॥ ६३ ॥
॥६४॥
।। ६५ ॥
अच्छो भल्लके स्फटिकेऽमलेच्छाभिमुखेऽव्ययम् कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात् परिधानापराञ्चले चीर्यं वाराह्यां च गुच्छो गुच्छे हारकलापयोः । पिच्छ: पुच्छे पिच्छं वाजे पिच्छाशाल्मलिवेष्टके पङ्क्तिः पूगच्छटाकोशमण्डेष्वश्वपदामये। मोचायां पिच्छिले म्लेच्छो जातिभेदेऽपभाषणे अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे । अब्जो धन्वन्तरौ चन्द्रे, शोब्जं पद्मसंख्ययोः आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले। को वेधसि केशे च कझं पीयूषपद्ययोः कुञ्जो हनौ दन्तिदन्ते निकुञ्ज च कुजो द्रुमे । आरे नरकदैत्ये च कुब्जो न्युब्जद्रुभेदयोः खजा दर्वीमथोः खजूं: खजूरी कीटकण्डुषु । गओ भाण्डागारे रीढाखन्योर्गञ्जा सुरागृहे गुञ्जा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ । द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहङ्गमे द्विजा भागीरेणुकयोर्ध्वज: पूर्वदिशो गृहे। शिश्ने चिह्न पताकायां खट्वाङ्गे शौण्डिकेऽपि च निजो नित्ये स्वकीये च न्युब्जः कुब्जे कुशे स्रुचि । अधोमुखेऽपि च न्युब्जं कर्मरङ्गे तरोः फले प्रजा लोके संततौ च पिञ्जा तूलहरिद्रयोः । पिञ्जो व्यग्रे वधे पिझं बले बीजं तु रेतसि
॥६६॥
।। ६७ ॥
॥६८॥
॥६९॥
॥ ७० ॥
॥ ७१ ॥
૧૫૬
For Private And Personal Use Only