________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३६॥
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥४१॥
भगोऽर्कज्ञानमाहात्म्य-यशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्लेच्छाश्रीधर्मैश्वर्ययोनिषु भङ्गस्तरङ्गे भेदे च रुविशेषे पराजये । कौटिल्ये भयविच्छित्योर्भङ्गा शणे भङ्गिः पुनः भक्तिवीच्योर्भागो रूपार्द्धके भाग्यैकदेशयोः । भृङ्गं त्वक्पत्रं भृङ्गस्तु षिगधूम्याटमार्कवाः षट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे धनेऽहिकायफणयोः पालनाऽभ्यवहारयोः । मार्गो मृगमदे मासे सौम्यःऽन्वेषणे पथि मृगः कुरङ्गे याञ्चायां मृगयायां गजान्तरे। पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे युगं हस्तचतुष्के स्याद्रथाद्यङ्गे कृतादिके। वृद्धिनामौषधे युग्मे योगो विश्रब्धघातिनि अलब्धलाभे सङ्गत्यां कार्मणध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च संनाहे भेषजे धने विष्कम्भादावुपाये च रङ्गः स्यान्नृत्तयुद्धवोः । रागे रङ्गं तु त्रपुणि राग: स्यालोहितादिषु गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे । लङ्गः सङ्गे च षिड्ने च लिङ्गं मेहनचिह्नयोः शिवमूर्तावनुमाने सांख्योक्तविकृतावपि । वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः । व्यङ्गो भेके हीनाङ्गे च वेगो रयप्रवाहयोः
॥ ४२ ॥
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६ ॥
॥४७॥
૧૫૪
For Private And Personal Use Only