SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४॥ ॥ २५ ॥ ॥ २६॥ ॥ २७॥ ॥ २८ ॥ ॥ २९ ॥ मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः । रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीला तु शूकशिम्बायां गतिभेदे च नर्त्तने शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि सखा सहाये मित्रे च सुखं त्रिदिवशर्मणोः । सुखा प्रचेतसः पुर्यामगः स्यान्नगवत्तरी शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽर्कग्रहपक्षिषु शरे देवेऽपि खड्गोऽसौ खड्गिशृङ्गे च गण्डके। टङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः दुर्गं पुनर्दुर्गमे स्याद् दुर्गा तु नीलिकोमयोः । नागो मतङ्गजे सर्प पुन्नागे नागकेसरे क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः गागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे । पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः पिङ्गं बालके पिशङ्गे पूगः क्रमुकसङ्घयोः । फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ।। ३०॥ ॥ ३१ ॥ ॥ ३२॥ ॥ ३३॥ ॥ ३४॥ ॥ ३५ ॥ १५३ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy