________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पङ्कोऽघे कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्री शिवमल्लीबकोटयोः भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु । मुको मोक्षद्रुमे सङ्खे तस्करे मांसलाण्डयोः मूको दैन्याऽवादीनेषु रङ्कः कृपणमल्लयोः । राका कच्छां दृष्टरजःकन्यायां सरिदन्तरे पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः । हीनेऽपि रोकं क्रयणभेदे नावि बिले चरे कोंऽशौ लङ्का तु शाखा शाकिनी कुलटा पुरी । लोको विश्वे जने वल्कं शकले त्वचि शल्कवत् शको देशे राजभेदे शङ्का स्यात् संशये भये । शकुः पत्रशराजाले संख्याकीलकशम्भुषु यादोऽस्त्रभेदयोर्मेद्रे शाको द्वीपे नृपे द्रुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः रक्षोऽमात्ये शुकं ग्रन्थिपर्णेऽरलुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके शूकोऽनुक्रोशकिशार्वोः शोकेऽभिषवशुङ्गयोः । शूका लेखे श्लोकस्तु पद्यबन्धे यशस्यपि शौकं शुकानां समूहे स्त्रीणां च करणान्तरे । सृका बाणोत्पलवाताः, स्तोकः स्याच्चातकाल्पयोः नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः । न्युङ्खः सामविशेषस्य षडोङ्कार्यामतिप्रिये पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपि । प्रेङ्खा पर्यटने नृत्ये दोलायां वाजिनां गतौ
૧૫૨
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
।। २२ ।।
॥ २३ ॥