________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
को ब्रह्माण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले । कं शीर्षेऽप्सु सुखे खं स्व: संविदि व्योमनीन्द्रिये
शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि त्वक् वल्कले चर्मणि च, न्यग् निम्ने नीचकार्त्स्ययोः । रुक् शोभाकिरणेच्छासु वाग् भारत्यां वचस्यपि जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च । ज्ञः स्याद्विचक्षणे पद्मा-सने चान्द्रमसायनौ सद्विद्यमाने सत्ये च प्रशस्तार्चितसाधुषु । भः शुक्रे भडौ भांशौ, भूस्तु भूमिरिव क्षितौ स्थाने चमः पुनः शम्भौ, मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि क्षमामौव्यर्द्युर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने द्रूः कामरूपिणि स्वर्णे, धूर्यानमुखभारयोः । पूः शरीरे नगरे च श्रीलक्ष्म्यां सरलद्रुमे वेषोपकरणे वेष- रचनायां मतौ गिरि । शोभात्रिवर्ग-संपत्त्योः सूः स्रुवे निर्झरेऽपि च वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने दृग् दृष्टृदर्शनध्यक्ष्णि विट् प्रवेशे नृवैश्ययोः । तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि । भाः प्रभावे मयूखे च मास्तु मासे निशाकरे
૧૫૦
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ५॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
।। १६ ।।