SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्यात्रायथ पूर्वेऽहीत्यादौ पूर्वेधुरादयः समानेऽहनि सद्य: स्यात् परे त्वह्नि परेद्यवि । उभयास्तूभयेयुः समे युगपदेकदा स्यात्तदानीं तदा तर्हि यदा यीन्यदैकदा। परुत्परोर्येषमोऽब्दे पूर्वे पूर्वतरेऽत्र च प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा । द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च द्वित्र्यश्चतुःपञ्चकृत्व इत्याद्यावर्तने कृते। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः अव्यथानामनन्तत्वाद् दिामात्रमिह दर्शितम् इति सामान्यकाण्ड: षष्ठः ॥ ७ ॥ ॥ ८ ॥ ॥९॥ कलिकालसर्वज्ञ पू.आ.श्री हेमचन्द्राचार्यविरचितः ॥अनेकार्थसंग्रहकोषः ।। एकस्वरः प्रथमः काण्ड: ध्यात्वाऽर्हतः कृतैकार्थ-शब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् ॥१॥ अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् यत्रैक एव रूढोऽर्थो यौगिकस्तत्र दर्श्यते । अनेकस्मिंस्तु रूढेऽर्थे यौगिकः प्रोच्यते न वा ॥३॥ पदानां भङ्गतो योऽस्मिन्नानेकार्थः प्रकाश्यते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ ॥ ૧૪૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy