SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६॥ ॥ ३७॥ ।। ३८॥ ॥ ३९ ॥ ॥४०॥ मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः । आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः । उषाकीलो विशोकश्च व्राजस्तु ग्रामकुक्कुटः हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः । गोनर्दो मैथुनी कामी श्येनाक्षो रक्तमस्तक: गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः । सुदर्शनः शकुन्याजौ शुके तु प्रियदर्शनः श्रीमान् मेधातिथिर्वाग्मी मत्स्ये तु जलपिप्पिकः । मूको जलाशयः शेवः सहस्रदंष्ट्रस्त्वेतनः जलवालो वदालोऽथ पाठीने मृदुपाठकः। इति तिर्यकाण्डश्चतुर्थः अथ रत्नप्रभा धर्मा वंशा तु शर्कराप्रभा स्याद्वालुकाप्रभा शैला भवेत् पङ्कप्रभाञ्जना । धूमप्रभा पुना रिष्टा माधव्या तु तमःप्रभा महातमःप्रभा माधव्येवं नरकभूमयः । इति नारककाण्ड: पञ्चमः आनुकूल्यार्थकं प्राध्वमसाकल्ये तु चिच्चन तु हि च स्म ह वै पादपूरणे पूजने स्वती । वद् वा यथा तथेवैवं साम्येऽहो ही च विस्मये स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः । ऊं पृच्छायामतीते प्राक् निश्चयेऽद्धाऽञ्जसाद्वयम् अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि । प्रशंसने तु सुष्ठु स्यात्परश्वः श्वः परेऽहनि ॥ २॥ ॥ १ ॥ ॥ २॥ ॥ ३॥ ॥ ४ ॥ १४८ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy