SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४॥ ॥ २५ ॥ ।। २६॥ ॥ २७॥ ।। २८ ॥ ॥ २९ ॥ चामर्येकशफोऽपि स्यादश्वायां पुनरर्वती। मल्लिकाक्षः सितैर्नेः स्याद्वाजीन्द्रायुधोऽसितैः ककुदी ककुदावर्तो निर्मुष्कस्त्विन्द्रवृद्धिकः । शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः वनंतपः स्वजातिद्विट् कृतज्ञो भल्लहश्च सः । दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः मण्डलः कपिलो ग्राममृगश्चेन्द्रमहोऽपि च । महिषे कलुषः पिङ्गः कटाहो गद्गदस्वरः हेरम्बः स्कन्धशृङ्गश्च सिंहे तु स्यात्पलंकषः । शैलाटो वनराजश्च नभ:क्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः । सूकरे कुमुखः कामरूपी च सलिलप्रियः तलेक्षणो वक्रदंष्ट्र: पङ्कक्रीडनकोऽपि च । मृगे त्वजिनयोनिः स्यादथो भुजगभोजिनि अहीरणी द्विमुखश्च भवेत् पक्षिणि चञ्चुमान् । कण्ठाग्नि: कीकसमुखो लोमकी रसनारदः वारङ्गिनाडीचरणौ मयूरे चित्रपिङ्गलः । नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः मार्जारकण्ठो मरुको मेघनादानुलासकः । मयुको बहुलग्रीवो नगावासश्च चन्द्रकी कोकिले तु मदोल्लापी काकजातो रतोद्वहः । मधुघोपो मधुकण्ठः सुधाकण्ठ: कुहूमुखः घोषयित्नुः पोषयित्नुः कामवालः कुनालिकः । कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः ॥३०॥ ॥ ३१ ॥ ॥ ३२ ॥ ।। ३३॥ ॥ ३४ ॥ ॥ ३५ ॥ १४७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy