SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्णादर्शो मेखला तु लालिनी कटिमालिका । अथ किङ्कियां घर्घरी विद्या विद्यामणिस्तथा नूपुरे तु पादशीली मन्दीरं पादनालिका । पादाङ्गुलीयके पादपालिका पादकीलिका वस्त्रे निवसनं वस्नं सत्त्रं कर्पटमित्यपि । दशासु वस्त्रपेश्योऽथ हिमवातापहांशुके द्विखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः । अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः योगी धन्वी कृष्णपक्षी नन्दिघोषस्तु तद्रथः । ग्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः माद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्ठिराः । ये तु पाण्डवेयाः स्युः पाण्डवाः पाण्डवायनाः राजच्छत्रे नृपलक्ष्म चमरः स्यात्तु चामरे । स्यान्यायद्रष्टरि स्थेयो द्वाःस्थे द्वाः स्थितिदर्शकः क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्ष कोट्टपतिः पौरिको दाण्डपाशिक: वेध्यं निमित्तं बाणे तु लक्ष्यहा मर्मभेदनः । वीर वीरशङ्कुश्च कदम्बोप्यस्त्रकण्टकः नाराचे लोहनालोऽस्त्रसायको सिस्तु सायकः । श्रीगर्भा विजयः शास्ता व्यवहारः प्रजाकरः धर्मपालोऽक्षरो देवरतीक्ष्णकर्मा दुरासदः । प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः करपालो विशसनस्तीक्ष्णधारो विषाग्रजः । धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ १४३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 88 11 ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥ ॥। ४८ ।। ॥ ४९ ॥ 1140 11 ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५५ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy