________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७४ ॥
।। ७५ ॥
॥७६ ॥
॥ ७७॥
॥ ७८॥
॥ ७९ ॥
एकशृङ्गो यमकील आसन्दः शिवकीर्तनः । शद्रुर्वंशः श्रीवराहः सदायोगी सुयामुनः बलभद्रे तु भद्राङ्गः फालो गुप्तचरो बली। प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी। कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः शमान्तकः सर्वधन्वी रागरज्जुः प्रकर्षकः । मनोदाही मथनश्च गरुडस्तु विषापहः पक्षिसिंहो महापक्षो महावेगो विशालकः । उन्नतीशः स्वमुखभूः शिलानीहोऽहिभुक् च सः बुद्धे तु भगवान् योगी बुधो विज्ञानदेशनः । महासत्वो लोकनाथो बोधिरर्हन् सुनिश्चितः गुणाधिर्विगतद्वन्द्वो वचने स्यात्तु जल्पितम् । लपितोदितभणिताभिधानगदितानि च हूतौ हक्कारकाकारौ चाण्डालानां तु वल्लको । काण्डवीणा कुवीणा च डक्कारी किंनरी तथा सारिका खुङ्खणी चाथ दर्दर कलशीमुखः । सूत्रकोणो डमरुकं समौ पणवकिकिणौ शृङ्गवाद्ये शृङ्गमुखं हुडुक्कस्तालमर्दकः । काहला तु कुहाला स्यात् चण्डकोलाहला च सा संवेशप्रतिबोधार्थं द्रगडद्रकटावुभौ । देवतार्चनतूर्ये तु धूमलो बलिरित्यपि क्षुण्णकं मृतयात्रायां माङ्गले प्रियवादिका। रणोद्यमे त्वर्धतूरो वाद्यभेदास्तथा परे
૧૩૮
॥ ८०॥
॥ ८१॥
॥ ८२॥
|| ८३ ॥
।। ८४ ॥
॥ ८५ ।।
For Private And Personal Use Only