SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छाया छन्दः कायो रूपं बिम्बं मानकृती अपि । सूर्मी स्थूणाऽयः प्रतिमा हरिणी स्याद्धिरण्मयी प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् । वामं प्रसव्यं प्रतीपं प्रतिलोममपष्ठु च वामं शरीरेऽङ्गं सव्यमपसव्यं तु दक्षिणम् । अबाधोच्छ्रङ्खलोद्दामा नियन्त्रितमनर्गलम् निरङ्कुशे स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे । व्यक्तं वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् बन्धुरं तून्नतानतं स्थपुटं विषमोन्नतम् । अन्यदन्यतरद्भिन्नं त्वमेकमितरच्च तत् करम्बः कबरो मिश्रः संपृक्तः खचितः समाः । विविधस्तु बहुविधो नानारूपः पृथग्विधः त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु । चपलाविलम्बिते च झम्पा सम्पातपाटवम् अनारतं त्वविरतं संसक्तं सततानिशे । नित्यानवरताजस्रासक्ता श्रान्तातिसंततम् साधारणं तु सामान्यं दृढसन्धिस्तु संहतम् । कलिलं गहने संकीर्णे तु सङ्कुलमाकुलम् कीर्णमाकीर्णं च पूर्णे त्वाचितं छन्नपूरिते । भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् । परिक्षिप्ते वलयितं निवृतं परिवेष्टितम् परिष्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ૧૨૫ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १०० ॥ ॥ १०१ ॥ ॥ १०२ ॥ ॥ १०३ ॥ ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६ ॥ ॥ १०७ ॥ ॥ १०८ ॥ ॥ १०९ ॥ ॥ ११० ॥ ॥ १११ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy