________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६४।।
।। ६५ ॥
॥६६॥
।। ६७॥
॥ ६८॥
॥ ६९ ॥
अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि । दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धरम् प्रांशूच्छ्रितमुदग्रं च न्यङ् नीचं ह्रस्वमन्थरे । खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् पृथूर पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरु दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः । उत्सेध उदयोच्छ्रायौ परिणाहो विशालता प्रपञ्चाभोगविस्तारव्यासाः शब्दे स विस्तरः । समासस्तु समाहारः संक्षेपः संग्रहोऽपि च सर्वं समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च । अंशो भागश्च वण्ट: स्यात्पादस्तु स तुरीयक: मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् विमलं विशदं वीध्रमवदातमनाविलम् । विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् निर्णिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि । संमुखीनमभिमुखं पराचीनं पराङ्मुखम् मुख्यं प्रकृष्टं प्रमुखं प्रबर्ह वर्यं वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमागे ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे । प्रेष्ठपरार्द्धपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत्
॥ ७० ॥
11 ७१ ॥
॥ ७२ ॥
।। ७३ ॥
॥ ७४ ।।
।। ७५ ॥
૧૨૨
For Private And Personal Use Only