SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोत्रार्थप्रत्ययान्तानां स्युरौपगवकादयः । उक्षादेरौक्षकं मानुष्यकं वार्द्धकमौष्ट्कम् स्याद्राजपुत्रकं राजन्यकं राजकमाजकम् । वात्सकौर के कावचिकं कवचिनामपि हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् । धेनूनां धैनुकं धेन्वन्तानां गौधेनुकादयः कैदारकं कैदारिकं कैदार्यमपि तद्गणे । ब्राह्मणादेर्ब्राह्मण्यं माणव्यं वाडव्यमित्यपि गणिकानां तु गाणिक्यं केशानां कैश्यकैशिके । अश्वानामाश्वमश्वीयं पशूनां पार्श्वमप्यथ वातूलवात्ये वातानां गव्यागोत्रे पुनर्गवाम् । पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः जनता बन्धुता ग्रामता गजता सहायता । जनादीनां रथानां तु स्याद्रथ्या रथकट्यया राजिर्लेखा तिर्विधी - मालाऽल्यावलिपङ्क्तयः । धोरणी श्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् युगं द्वैतंयमं द्वन्द्वं युग्मं यमलयामले । पशुभ्यो गोयुगं युग्मे परं षट्त्वे तु षड्गवम् परःशताद्यास्ते येषां परा संख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुरं बहुलं बहु पुष्कलम् भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् । स्तोकं क्षुल्लं तुच्छमल्पं दभ्राणुतलिनानि च तनु क्षुद्रं कृशं सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् । त्रुयै मात्रा लवो लेशः कणो ह्रस्वं पुनर्लघु ૧૨૧ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५५ ॥ ॥ ५६ ॥ ॥ ५७ ॥ ॥ ५८ ॥ ।। ५९ ।। ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy