________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवदातगौरशुभ्रवलक्षधवलार्जुनाः । पाण्डुरः पाण्डर: पाण्डुरीषत्पाण्डुस्तु धूसरः
॥ २९ ॥ कापोतस्तु कपोताभ: पीतस्तु सितरञ्जनः । हारिद्रः पीतलो गौर: पीतनीलः पुनर्हरित्
॥ ३० ॥ पालाशो हरितस्तालकाभो रक्तस्तु रोहितः । माञ्जिष्ठो लोहितः शोणः श्वेतरक्तस्तु पाटलः ।। ३१ ॥ अरुणो बालसन्ध्याभ: पीतरक्तस्तु पिञ्जरः । कपिलः पिङ्गलः श्याव: पिशङ्गः कपिशो हरिः ॥ ३२ ॥ बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः । स्याद्राम: श्यामल: श्यामः कालो नीलोऽसितः शितिः ॥ ३३ ॥ रक्तश्यामे पुनर्धूम्रधूमलावथ कर्बुरः । किर्मीर एत: शबलश्चित्रकल्माषचित्तलाः
॥ ३४ ॥ शब्दो निनादो निर्घोष: स्वानो ध्वानः स्वरो ध्वनिः । निहाँदो निनदो हादो नि:स्वानो निःस्वनः स्वनः ॥ ३५ ॥ खो नादः स्वनिर्घोष: संव्याझ्यो राव आरवः । क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ ३६ ।। षड्जऋषभगान्धारा मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः
॥ ३७॥ ते मन्द्रमध्यताराः स्युरुर:कण्ठशिरोभवाः । रुदितं क्रन्द्रितं क्रुष्टं तदपुष्टं तु गह्वरम्
॥ ३८॥ शब्दो गुणानुरागोत्थः प्रणाद: सीत्कृतं नृणाम् । पर्दनं गुदजे शब्दे कट्टनं कुक्षिसम्भवे
॥ ३९ ॥ क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः । कोलाहल: कलकलस्तुमुलो व्याकुलो रवः
॥ ४० ॥
૧૧૯
For Private And Personal Use Only