SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १७॥ |॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ ॥ २१॥ ॥ २२ ॥ किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः । अंह: कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः बलतुर्याश्चतुर्भद्रं प्रमादोऽनवधानता छन्दोऽभिप्राय आकूतं मतभावाशया अपि । हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् । स्पर्शादयस्त्विन्द्रियार्था विषया गोचरा अपि शीते तुषारः शिशिरः सुशीम: शीतलो जङः । हिमोऽथोष्णे तिग्मस्तीव्रस्तीक्ष्णश्चण्ड: खरः पटुः कोष्णः कवोष्णः कदुष्णो मन्दोष्णश्चेषदुष्णवत् । निष्ठुर: कक्खटः क्रूरः परुषः कर्कशः खरः दृढः कठोर: कठिनो जरठ: कोमलः पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्मधूलकः । अम्लस्तु पाचनो दन्तशठोऽथ लवणः सर: सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः । वक्त्रभेदी तु तिक्तोऽथ कषायस्तुवरो रसाः गन्धो जनमनोहारी सुरभिर्घाणतर्पणः । समाकर्षी निर्हारी च स आमोदो विदूरगः विमोत्थ: परिमलोऽथामोदी मुखवासनः । इष्टगन्धः सुगन्धिश्च दुर्गन्धः पूतिगन्धिकः आमगन्धि तु विसं स्याद्वर्णाः श्वेतादिका अमी। श्वेतः श्येत: सितः शुक्लो हरिणो विशदः शुचिः ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ૧૧૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy