SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले मनसः कर्म सङ्कल्पः स्यादथो शर्म निर्वृतिः । सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा पीडा बाधाऽतिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् । आमनस्यं प्रगाढं च स्यादाधिर्मानसी व्यथा सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । क्षुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् उपज्ञा ज्ञानमाद्यं स्याच्चर्चा संख्या विचारणा । वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः निर्णयो निक्षयोऽन्तः संप्रधारणा समर्थनम् । अविद्याऽहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्भ्रमः संदेहद्वापरारेका विचिकित्सा च संशयः । परभागो गुणोत्कर्षो दोषे त्वादीनवा श्रवौ स्वाद् रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्म: सर्गे निसर्गवत् शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः । स्नेहः प्रीतिः प्रेमहार्दे दाक्षिण्यं त्वनुकूलता विप्रतीसारोऽनुशयः पश्चात्तापोऽनुतापश्च । अवधानसमाधानप्रणिधानानि तु समाधौ स्युः धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः । दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् अलक्ष्मीर्निर्ऋतिः कालकर्णिका स्यादथाशुभम् । दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ૧૧૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 4 11 ॥ ६ ॥ 119 11 11 2 11 113 11 ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy