SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ३४३॥ ॥ ३४४॥ ॥ ३४५ ॥ ॥ ३४६ ॥ ॥ ३४७ ॥ ॥ ३४८॥ संफालः शृङ्गिणी भेडो मेषी तु कुररी रुजा । जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः अस्थिभुग् भषणः सारमेयः कौलेयकः शुनः । शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः रसनालिङ् रतपराः कीलशायिव्रणान्दुकाः । शालाको मृगदंशः श्वाऽलर्कस्तु स रोगितः विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी । विट्चरः सूकरे ग्राम्ये महिषो यमवाहनः रजस्वलो वाहरिपुर्जुलाय: सैरिभो महः । धीरस्कन्धः कृष्णभृङ्गो जरन्तो दंशभीरुकः रक्ताक्षः कासरो हंसकालीतनयलालिको । अरण्यजेऽस्मिन् गवलः सिंहः कण्ठीरवो हरिः हर्यक्ष: केसरीभारि: पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः पारिन्द्रः पत्यरी मृगात् श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रको । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किर: किरिः । भूदारः सूकर: कोलो वराहः क्रोडपोत्रिणौ घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ। आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ ३४९ ॥ ॥ ३५०॥ ॥ ३५१॥ ॥३५२ ॥ ॥३५३॥ ॥ ३५४॥ ૧૦૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy