________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौरभेयी माहेयी माहा सुरभिरर्जुनी । उस्त्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुह्युषा तम्पा निलिम्पिका तंवा सा तु वर्णैरनेकधा । प्रष्ठी गर्भिणी वन्ध्या वशा वेहद् वृषोपगा अवतोका स्रवद्गर्भा वृषाकान्ता तु सन्धिनी । प्रौढवत्सा बष्कयिणी धेनुस्तु नवसूतिका परेष्टुर्बहुसूतिः स्याद् गृष्टिः सकृत्प्रसूतिका । प्रजने काल्योपसर्या सुखदोह्या तु सुव्रता दुःखदोह्या तु करा बहुदुग्धा तु वञ्जुला । द्रोणदुग्धा द्रोणदुघा पीनोध्नी पीवरस्तनी पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके । नैचिकी तूत्तमा गोषु पलिक्नी बालगर्भिणी समांसमीना तु सा या प्रतिवर्षं विजायते । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला चतुस्त्रेर्हायणी द्व्येकाद् हायन्येकादिवर्षिका । आपीनमूधो गोविट् तु गोमयं भूमिलेपनम् शुष्के तु तत्र गोग्रन्थिः करीषच्छगणे अपि । गवां सर्वं गव्यं व्रजे गोकुलं गोधनं धनम् प्रजने स्यादुपसरः कीलः पुष्पलकः शिवः । बन्धनं दाम संदानं पशुरज्जुस्तु दामनी अजः स्याच्छगल श्छागश्छगो वस्तः स्तभः पशुः । अजा तु छागिका मञ्जा सर्वभक्षा गलस्तनी युवाऽजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः । उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः
૧૦૮
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३३१ ॥
॥ ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६ ॥
॥ ३३७ ॥
॥ ३३८ ॥
।। ३३९ ॥
॥ ३४० ॥
॥ ३४१ ॥
॥ ३४२ ॥