________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१९ ॥
।। ३२० ॥
।। ३२१ ॥
॥ ३२२॥
॥ ३२३ ॥
।। ३२४॥
वेसरोऽश्वतरो वेगसरचाथ क्रमेलकः । कुलनाशः शिशुनामा शलो भोलिमरुप्रियः मयो महाङ्गो वासन्तो द्विककुहुर्गलङ्घनः । भूतघ्न उष्ट्रो दाशेरो खणः कण्टकाशनः दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः । स तु शृङ्खलकः काष्ठमयैः स्यात्पादबन्धनैः गर्दभस्तु चिरमेही बालेयो रासभः खरः । चक्रीवान् शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः वाडवेयः सौरभेयो भद्रः शक्वरशाक्वरौ । उक्षाऽनड्वान् ककुद्यान् गौर्बलीवर्दश्च शाङ्करः उक्षा तु जातो जातोक्ष: स्कन्धिक: स्कन्धवाहकः । महोक्षः स्यादुक्षतरो वृद्धोक्षस्तु जरद्गवः षण्ढतोचित आर्षभ्यः कूटो भग्नविषाणकः । इट्चरो गोपति: षण्डो गोवृषो मदकोहल: वत्सः शकृत्करिस्तो दम्यवत्सतरौ समौ । नस्योतो नस्तितः षष्ठवाट तु स्याद् युगपार्श्वग: युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः । स तु सर्वधुरीणः स्यात्सर्वां वहति यो धुरम् एकधुरीणैकधुरावुभावेकधुरावहे । धुरीणधुर्यधौरेयधौरेयकधुरंधराः धूर्वहेऽथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः । स्थौरी पृष्ठ्यः पृष्ठवाह्यो द्विदन् षोडन् द्विषभदौ वह; स्कन्धोंऽशकूटं तु ककुदं नैचिकं शिरः । विषाणं कूणिका शृङ्गं सास्ना तु गलकम्बलः
॥ ३२५ ॥
॥ ३२६ ॥
।। ३२७ ॥
।। ३२८॥
॥ ३२९ ॥
॥ ३३०॥
૧૦૭
For Private And Personal Use Only