SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३०७॥ ॥ ३०८॥ ।। ३०९ ॥ ॥ ३१० ॥ ।। ३११॥ ।। ३१२ ॥ कुलाहस्तु मनाक् पीतः कृष्णः स्याद्यदि जानुनि । उकनाहः पीतरक्तच्छायः स एव तु क्वचित् कृष्णरक्तच्छविः प्रोक्तः शोण: कोकनदच्छविः । हरिकः पीतहरितच्छायः स एव हालकः पङ्गुलः सितकाचाभो हलाहश्चित्रितो हयः । ययुरश्वोऽश्वमेधीयः प्रोथमश्वस्य नासिका मध्यं कश्यं निगालस्तु गलोद्देशः खुराः शफाः । अथ पुच्छं वालहस्तो लाङ्गेलं लूम वालधिः अपावृत्तपरावृत्तलुठितानि तु वेल्लिते । धोरितं वल्गितं प्लुतोत्तेजितोत्तेरितानि च गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । तत्र धौरितकं धौर्यं धोरणं धोरितं च तत् बभ्रुकङ्कशिखिक्रोडगतिवद् वल्गितं पुनः । अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । कवी खलीनं कविका कवियं मुखयन्त्रणम् पञ्चाङ्गी वकापट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः प्रक्षरं प्रखर समौ चर्मदण्डे कशा रश्मौ वल्गाऽवक्षेपणी कुशा। पर्याणं तु पल्ययनं वीतं फल्गु हयद्विपम् ।। ३१३ ॥ ।। ३१४ ॥ ॥ ३१५ ॥ ॥ ३१६ ॥ ॥ ३१७ ॥ ॥ ३१८ ॥ १०७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy