SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २९५ ।। ॥ २९६ ॥ ॥ २९७ ॥ ॥ २९८॥ ॥ २९९ ॥ ॥ ३०० ॥ बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः । हिञ्जीरश्च पादपाशो वारिस्तु गजबन्धभूः त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च । तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः अपष्ठं त्वङ्कुशस्याग्रं यातमङ्कुशवारणम् । निषादिनां पादकर्म यतं वीतं तु तद्द्वयम् कक्ष्या दूष्या वरत्रा स्यात्कण्ठबन्धः कलापकः । घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गोऽश्वस्तुरङ्गमः गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः । वडवाऽश्वा प्रसूर्वामी किशोरोऽल्पवया हयः जवाधिकस्तु जवनो रथ्यो वोढा रथस्य यः । आजानेयः कुलीनः स्यात्तत्तद्देशास्तु सैन्धवाः वानायुजाः पारसीकाः काम्बोजा वाह्निकादयः । विनीतस्तु साधुवाही दुविनीतस्तु शूकल: कश्यः कशार्हो हृद्धक्रावर्ती श्रीवत्सकी हयः । पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः । सिते तु कर्ककोकाही खोङ्गाह: श्वेतपिङ्गले पीयूषवणे सेराह: पीते तु हरियो हये। कृष्णवर्णे तु खुङ्गाहः क्रियाहो लोहितो हयः आनीलस्तु नीलकोऽथ त्रियूहः कपिलो हयः । वोल्लाहस्त्वयमेव स्यात्पाण्डुकेशरवालधिः उराहस्तु मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि । सुरूहको गर्दभाभो वोरुखानस्तु पाटल: ॥ ३०१ ॥ ॥ ३०२ ॥ ॥३०३ ॥ ॥ ३०४ ॥ ॥ ३०५ ॥ ।। ३०६ ॥ ૧૦૫ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy