________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६०॥
॥ २६१ ॥
|| २६२॥
॥ २६३॥
॥ २६४॥
वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्रकः । भेदाः कान्तारपुण्ड्राद्यास्तस्य मूलं तु मोरटम् काशस्त्विषीका घासस्तु यवसस्तृणमर्जुनम् । विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः । सौराष्ट्रिक: शौल्किकेयः काकोलो दारदोऽपि च अहिच्छत्रो मेषशृङ्गः कुष्ठवालकनन्दनाः । कैराटको हैमवतो मर्कट: करवीरकः सर्षपो मूलको गौराईक: सक्तुककर्दमौ । अङ्कोल्लसारः कालिङ्गः शृङ्गिकी मधुसिक्थक: इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः कुरण्टाद्या अग्रबीजा मूलजास्तूत्पलादयः । पर्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः शाल्यादयो बीजरुहाः संमूर्च्छजास्तृणादयः । स्युर्वनस्पतिकायस्य षडेता मूलजातयः
इति वनस्पतिकायः नीलङ्गुः कृमिरन्त क्षुद्रकीटो बहिर्भवः । पुलकास्तूभयेऽपि स्युः कीकसाः कृमयोऽणवः काष्ठकीटो घुणो गण्डूपदः किञ्चलकः कुसूः । भूलता गण्डूपदी तु शिल्यस्रपा जलौकसः जलालोका जलूका च जलौका जलसर्पिणी। मुक्तास्फोटोऽब्धिमण्डूकी शक्तिः कम्बुस्तु वारिजः
॥ २६५ ॥
।। २६६॥
।। २६७॥
|| २६८॥
॥ २६९ ॥
॥ २७० ।।
૧૦૨
For Private And Personal Use Only