________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४८॥
॥ २४९ ॥
॥ २५० ॥
।। २५१॥
॥ २५२॥
॥ २५३॥
स्तम्बस्तु गुच्छो धान्यादे लं काण्डोऽफलस्तु सः । पलः पलालो धान्यत्वक्तुषो बुसे कडङ्गरः धान्यमावसितं रिद्धं तत्पूतं निर्बुसीकृतम् । मूलपत्रकरीराग्रफलकाण्डाविरूढकाः त्वक् पुष्पं कवकं शाकं दशधा शिग्रुकं च तत् । तण्डुलीयस्तण्डुलेरो मेघनादोऽल्पमारिषः बिम्बी रक्तफला पीलुपी स्यात्तुण्डिकेरिका । जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा वास्तुकं तु क्षारपत्रं पालक्या मधुसूदनी । रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः । भृङ्गराजो भृङ्गरजो मार्कव: केशरञ्जनः काकमाची वायसी स्यात्कारवेल्ल: कटिल्लकः । कूष्माण्डकस्तु कर्कारुः कोशातकी पटोलिका चिभिटी कर्कटी वालुक्येर्वारुस्त्रपुसी च सा । अर्शोघ्नः सूरणः कन्दः शृङ्गबेरकमाकम् कर्कोटक: किलासघ्नस्तिक्तपत्रः सुगन्धकः । मूलकं तु हरिपर्णं सेकिमं हस्तिदन्तकम् तृणं नडादि नीवारादि च शष्पं तु तन्नवम् । सौगन्धिकं देवजग्धं पौरं कत्तृणरोहिषे दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः । गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपविका हरिताली रुहा पोटगलस्तु धमनो नडः । कुरुविन्दो मेघनामा मुस्ता गुन्द्रा तु सोत्तमा
।। २५४॥
॥ २५५ ॥
॥ २५६॥
॥ २५७ ॥
॥ २५८॥
॥ २५९ ॥
૧૦૧
For Private And Personal Use Only