________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४१ ।।
यवो हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् । मङ्गल्यको मसूरः स्यात्कलायस्तु सतीनकः ।। २३६ ॥ हरेणुः खण्डिकश्चाथ चणको हरिमन्थकः । माषस्तु मदनो नन्दी वृष्यो बीजवरो बली
॥ २३७॥ मुद्गस्तु प्रथनो लोभ्यो बलाटो हरितो हरिः । पीतेऽस्मिन् वसुखण्डीरप्रवेलजयशारदाः
|| २३८॥ कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्गे तुवरकनिगूढककुलीनकाः
।। २३९ ।। खण्डी च राजमुद्गे तु मकुष्ठकमयुष्ठको । गोधूमे सुमनो वल्ले निष्पावः शितशिम्बिक: ॥ २४० ।। कुलत्थस्तु कालवृन्तस्ताम्रवृन्ता कुलत्थिका। आढकी तुवरी वर्णा स्यात्कुल्मासस्तु यावकः नीवारस्तु वनव्रीहिः श्यामाकश्यामकौ समौ । कास्तु कङ्गुनी क्वङ्गुः प्रियङ्गुः पीततण्डुला ॥ २४२ ।। सा कृष्णा मधुका रक्ता शोधिका मुसटी सिता । पीता माधव्यथोद्दालः कोद्रवः कोरदूषकः
॥ २४३॥ चीनकस्तु काककङ्गुर्यवनालस्तु योनलः । जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ।। २४४ ॥ शणं भङ्गा मातुलानी स्यादुमा तु क्षुमाऽतसी। गवेधुका गवेधुः स्याज्जतिलोऽरण्यजस्तिलः ।। २४५ ॥ षण्डतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपः। कदम्बकस्तन्तुभोऽथ सिद्धार्थः श्वेतसर्षपः
॥ २४६ ॥ माषादयः शमीधान्यं शूकधान्यं यवादयः । स्यात्सस्यशूकं किंशारु: कणिशं सस्यशीर्षकम्
॥ २४७ ॥
१००
For Private And Personal Use Only