________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२४ ॥
॥ २२५ ॥
॥ २२६॥
॥ २२७॥
॥ २२८ ॥
॥ २२९॥
उशीरं वीरणीमूले हीबेरे वालकं जलम् । प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः लट्वायां महारजनं कुसुम्भं कमलोत्तरम् । लोधे तु गालवो रोध्रतिल्वशावरमार्जनाः मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि। कमलं नलिनं पद्ममरविन्दं कुशेशयम् परं शतसहस्राभ्यां पत्रं राजीवपुष्करे। बिसप्रसूनं नालीकं तामरसं महोत्पलम् तज्जलात्सरसः पङ्कात् परे रुडुहजन्मजाः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे रक्तोत्पलं कोकनदं कैरविण्यां कुमुद्वती। उत्पलं स्यात्कुवलयं कुवेलं कुवलं कुवम् श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् । नीले तु स्यादिन्दीवरं हल्लकं रक्तसंध्यके सौगन्धिके तु कल्हारं बीजकोशो वराटकः । कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् किञ्जल्कं केसरं संवर्तिका तु स्यान्नवं दलम् । करहाटः शिफा च स्यात्कन्दे सलिलजन्मनाम् उत्पलानां तु शालूकं नील्यां शैवालशेवले। शेवालं शैवलं शेपालं जलाच्छूकनीलिके धान्यं तु सस्यं सीत्यं च व्रीहि: स्तम्बकरिश्च तत् । आशुः स्यात् पाटलो व्रीहिर्गर्भपाकी तु षष्टिक: शालयः कलमाद्याः स्युः कलमस्तु कलामकः । लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिक:
॥ २३०॥
॥ २३१ ॥
॥ २३२॥
॥ २३३ ॥
।। २३४ ॥
|| २३५ ॥
For Private And Personal Use Only