________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१२ ॥
|| २१३ ॥
।। २१४॥
।। २१५ ।।
॥ २१६ ॥
।। २१७॥
हरीतक्यभया पथ्या त्रिफला तु फलत्रयम् । तापिञ्छस्तु तमाल: स्याच्चम्पको हेमपुष्पकः निर्गुण्डी सिन्दुवारेऽतिमुक्तके माधवी लता। वासन्ती चौड्रपुष्पं तु जपा जातिस्तु मालती मल्लिका स्याद्विचकिल: सप्तला नवमालिका । मागधी यूथिका सा तु पीता स्याद्धेमपुष्पिका प्रियङ्गुः फलिनी श्यामा बन्धूको बन्धुजीवकः । करुणे मल्लिकापुष्पो जम्बीरे जम्भजम्भलौ मातुलिङ्गो बीजपूरः करीरककरौ समौ । पञ्चाङ्गुलः स्यादेरण्डे धातक्यां धातुपुष्पिका कपिकच्छूरात्मगुप्ता धत्तूरः कनकाह्वयः । कपित्थस्तु दधिफलो नालिकेरस्तु लागली आम्रातको वर्षपाकी केतकः क्रकचच्छदः । कोविदारो युगपत्रः सल्लकी तु गजप्रिया वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः । मस्करः शतपर्वा च स्वनन् वातात्स कीचक: तुकाक्षीरी वंशक्षीरी त्वक्क्षीरी वंशरोचना । पूगे क्रमुकगूवाको तस्योद्वेगं पुनः फलम् ताम्बूलवल्ली ताम्बूली नागपर्यायवल्लयपि । तुम्ब्यलाबूः कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च विशाला विन्द्रवारुणी
॥ २१८॥
॥ २१९ ॥
॥ २२० ॥
॥ २२१ ॥
॥ २२२ ॥
।। २२३ ॥
૯૮
For Private And Personal Use Only