________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १६७ ॥
॥१६८॥
|| १६९ ॥
॥ १७० ॥
॥ १७१ ।।
दवो दावो वनवह्निर्मघवहिरिरम्मदः । छागणस्तु करीषाग्नि: कुकूलस्तु तुषानलः संताप: संज्वरो बाष्प ऊष्मा जिह्वाः स्युरर्चिषः । हेतिः कीला शिखा ज्वालाऽचिर्झल्लका महत्यपि स्फुलिङ्गोऽग्निकणोऽलातज्वालोल्काऽलातमुल्मुकम् । धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् अम्भसूः करमालश्च स्तरीर्जीमूतवाह्यपि । तडिदैरावती विद्युच्चला शम्पाऽचिरप्रभा आकालिकी शतहदा चञ्चला चपलाऽशनिः । सौदामनी क्षणिका च हादिनी जलवालिका
॥ इत्यग्निकायः ।। वायुः समीरसमिरौ पवनाशुगौ नभः श्वासो नभस्वदनिलश्वसनाः समीरणः। वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः । मारुत: स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगोचरः । अपान: पवनो मन्था पृष्ठपृष्ठान्तपाणिंगः समानः सन्धिहन्नाभिषूदानो हच्छिरोऽन्तरे । सर्वत्वावृत्तिको व्यान इत्यङ्गे पञ्च वायवः
॥ इति वायुकायः ॥ अरण्यमटवी सत्रं वाक्षं च गहनं झषः । कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम्
।। १७२ ॥
॥ १७३ ॥
॥ १७४ ।।
॥ १७५ ॥
॥ १७६ ॥
८४
For Private And Personal Use Only