________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७७ ॥
।। १७८॥
।। १७९ ॥
॥ १८० ।।
॥ १८१ ॥
दवो दाव: प्रस्तारस्तु तृणाटव्यां झषोऽपि च । अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने निष्कुटस्तु गृहारामो बाह्यारामस्तु पौरकः । आकीङ: पुनरुद्यानं राज्ञां त्वन्तःपुरोचितम् तदेव प्रमदवनममात्यादेस्तु निष्कुटे। वाटी पुष्पाद् वृक्षाच्चासौ क्षुद्राराम: प्रसीदिका वृक्षोऽग: शिखरी च शाखिफलदावद्रिर्हरिद्रुर्दुमो जीर्णो द्रुर्विटपी कुट: क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिको तरुवसू पर्णी पुलाक्यशिपः सालाऽनोकहगच्छपादपनगा रूक्षागमौ पुष्पदः कुञ्जनिकुञ्जकुडङ्गाः स्थाने वृक्षैर्वृतान्तरे । पुष्पैस्तु फलवान् वृक्षो वानस्पत्यो विना तु तैः फलवान् वनस्पतिः स्यात्फलावन्ध्यः फलेग्रहिः । फलवन्ध्यस्त्ववकेशी फलवान् फलिनः फली ओषधि:स्यादौषधिश्च फलपाकावसानिका। क्षुपो हुस्वशिफाशाखः प्रततिततिर्लता वल्लयस्यां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः । स्यात्प्ररोहोऽङ्कुरोऽङ्करो रोहश्च स तु पर्वणः समुत्थितः स्याद् बलिशं शिखाशाखालताः समाः । साला शाला स्कन्धशाखा स्कन्धः प्रकाण्डमस्तके मूलाच्छाखाऽवधिर्गण्डि: प्रकाण्डोऽथ जटा शिफा। प्रकाण्डरहिते स्तम्बो विटपो गुल्म इत्यपि शिरोनामाग्रं शिखरं मूलं बुध्नोंऽहिनाम च । सारो मज्ज्ञि त्वचि च्छल्ली चोचं वल्कं च वल्कलम्
॥ १८२॥
।। १८३॥
॥ १८४ ॥
॥१८५॥
॥ १८६॥
॥१८७ ॥
૫
For Private And Personal Use Only