SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनन्ताद्या (सानन्ताद्या) पुनर्जेया सम्यग्दृष्टौ द्विसप्ततिः । समं जिननरायुा भङ्गो रत्नप्रभात्रिके ॥११॥ पङ्कादावजिनस्त्वेष सप्तम्यामद्विकस्तु सः विना जिननरायुभ्यां मिथ्यात्वेऽनुच्चनद्वयः ॥ १२ ॥ सास्वादने विना षण्ढचतुष्कतिर्यगायुषी । विनानन्तचतुर्विंशतिका मिश्रायताख्ययोः नरयुग्माच्चकैः सार्धमेतयोः सप्ततिः पुनः । पर्याप्तेष्वथ तिर्यक्षु बन्धस्वामित्वमुच्यते ।॥ १४ ॥ सामान्ये चापि मिथ्यात्वे शतं सप्तदशोत्तरम् । जिनमाहारकद्वन्द्वं त्रिकमेतन्न विद्यते ॥ १५ ॥ सास्वादनगुणे श्वभ्रषोडशप्रकृतीविना । मिश्रेऽनन्तायेकत्रिंशत्सुरायुःप्रकृतीविना ॥ १६ ॥ सम्यग्दृष्टौ सदेवायु:प्राच्यं सप्ततिरङ्कतः । अद्वितीयकषायं तत् षट्षष्टिर्देशनामनि ।। १७ ॥ ओधः प्राग्नृगतौ तिर्यग्वद्गुणेषु चतुर्षु च । स जिनस्त्वयते स्थाने ओघो देशव्रतादिषु ।। १८॥ अपर्याप्तेषु तिर्यक्षु नरेष्वथ नवोत्तरम् । प्रकृतीनां शतं शेषं जिनैकादशकं विना ॥ १९॥ श्वभ्रजेष्विव देवेषु परं सैकेन्द्रियत्रयम् । ओघे मिथ्यागुणे चापि यावत्कल्पद्वयामरान् ।॥ २० ॥ अजिनं भवनज्योतिर्व्यन्तरेषु पुरोदितम् । सनत्कुमारमुख्येषु ज्ञेयं रत्नप्रभाकुवत् ॥ २१ ॥ उद्योतादिचतुष्केण हीनं तच्चानतादिषु । अथापर्याप्ततिर्यग्वच्छतमेषु नवोत्तरम् ॥ २२ ॥ ૧૪ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy