________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
२
॥
॥४॥
पू.आ. श्री जयतिलकसूरिविरचितम् ॥ बन्धस्वामित्वप्रकरणम् ॥
(संस्कृत कर्मग्रन्थः - ४) अबन्धस्वामिनं देवं प्रणम्यात्मगुरूनपि । बन्धस्वामित्वमाख्यामि गत्यादौ मार्गणापदे गतेः खकाययोगानां द्वारं वेदकषाययोः । ज्ञानचारित्रदृष्टीनां लेश्यासम्यक्त्वयोस्तथा भव्याभव्यकयो: संश्यसंज्ञिनोरुभयोरपि । आहारकान्ययोः सर्वसंख्यया षडशीतिका (यु.) आद्यप्रकरणोक्तो यो बन्धः सोऽत्रौघ उच्यते । ऊनाधिककृते पञ्चपञ्चाशत्तास्त्विमा भिदः तीर्थंकराभिधं देववैक्रियाहारकद्वयम् । देवायुः श्वभ्रसूक्ष्मादिविकलाक्षत्रिकत्रिकम् एकाक्षस्थावरातपषण्ढमिथ्यात्वहुण्डकम् । छेदवृत्तानन्तमध्याकृतिसंहतयस्तथा कुनभोगतिनीचैः स्त्रीदुर्भगादित्रिकं तथा । स्त्यानद्धित्रिकमुद्योतं तिरश्चो द्वयकं तथा तिर्यगायुनरायुश्च मनुष्यद्वयकं तथा ।
औदारिकद्वयं वज्रर्षभनाराचमित्यपि बन्धे विंशशतान्मुक्त्वा देवाघेकोनविंशतिम् । एकोत्तरशतस्यौघे स्वामित्वं नरकाङ्गिषु विना तीर्थं च मिथ्यात्वे सास्वादनगुणे पुनः । विना षण्ढचतुष्केण मिश्रे षड्विशति विना
॥५॥
॥६॥
॥ ७11
॥
८
॥
॥ १० ॥
१८३
For Private And Personal Use Only