SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनन्तान् दृष्टिमोहाख्यान् षण्ढस्त्रीषट्कपुंभिदः । द्वौ द्वावेकोऽन्तरे तुल्यान् कषायांश्चोपशान्तयन् ॥ १७४॥ करोत्युपशमश्रेणीश्चतस्रो जीव एककः । आभवं भव एकस्मिन् द्वे त्वेकां क्षपकाभिधाम् (यु.) ॥ १७५ ॥ अनन्तान् मिथ्यात्वं मिश्रं सम्यक्त्वं द्विश्चतुष्ककम्। षण्ढस्त्रीषट्कपुंवेदान् क्रोधादीन् क्षपति क्रमात् ॥१७६॥ आयुस्त्रयं चतस्रः प्राक् जातेः स्त्यानद्धिका त्रयम् । साधारणं श्वभ्रतिर्यक्रस्थावरातपयुग्मकम् ॥ १७७॥ सम्यक्त्वाष्टकयोर्मध्ये क्षपत्येकोनविंशतिम् । निद्राद्वयं च श्रेण्यन्ते विघ्नान्यावरणानि च ॥ १७८ ॥ यत्रोपशमकस्तत्र भवे न क्षपको भवेत् । मोहस्यैवोपशमकः क्षपकः सर्वकर्मणाम् ॥ १७९ ॥ क्षपकाणां शतं साष्टं समये समयावनौ । उपशमकानां चार्धं सद्विषष्टि शतं द्वयोः ॥१८० ॥ इत्येवं शतकं समीक्ष्य लघुकं संस्कृत्य गाथा वरास् ता एव प्रकृतिस्वरूपमखिलं स्मर्तुं मयेदं कृतम् । यद्धीनाधिकमुक्तमत्र किमपि प्राज्ञैः प्रसन्नैर्मयि कर्मग्रन्थविचारसारमतिभिः शोध्यं तदत्यादरात् ॥ १८१ ॥ ૧૯૨ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy