SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १६२ ॥ ॥ १६३ ॥ ॥ १६४ ॥ ॥ १६५ ॥ ॥ १६६॥ ॥ १६७ ॥ समचतुरस्त्रासातवजे सुखगतावपि । मिथ्यादृग्वा सम्यग्दृग्वा स्वामी त्रयोदशस्विति निद्राप्रचलयोस्तीर्थे षट्के हास्यादिके तथा । सम्यग्दृष्टिरप्रमत्तयतिराहारकद्वये प्रदेशबन्धं शेषासूत्कृष्टं मिथ्यादृशः पुनः । यान्तो योगान्तरं कुर्युरनुत्कृष्टममुं त्वमी नाहारकद्वये साधुरप्रमत्तगुणाश्रितः । असंज्ञी वीर्यव्यत्याशी सुरायु रकत्रये वैक्रियामरयोर्युग्मे तीर्थे तुर्यगुणाश्रितः । शेषाः सूक्ष्मनिगोदाद्यक्षणे शेषासु जन्तवः (यु.) षण्णां मूलप्रकृतीनां षड्भिदां दर्शनावृतेः । अननन्तकषायाणां ज्ञानावृत्त्यन्तराययोः कुत्साभीत्योरनुत्कृष्टः साद्यादिः स चतुर्विधः । शेषास्त्रयोऽपि सर्वेऽपि परासां ते द्विभेदकाः (यु.) तुल्यानि श्रेण्यसंख्येयभागाकाशप्रदेशकैः । योगस्थानानि प्रकृतिभेदकाः स्थितिभेदकाः स्थितिबन्धाध्यवसाया रसबन्धास्पदानि च । यथोत्तरमसंख्येयगुणान्येतानि पञ्च तु तेभ्योऽनन्तगुणाः प्रोक्ता: सर्वे कर्मप्रदेशकाः । अविभागपलिच्छेदास्तेभ्योऽनन्तगुणाः स्मृताः प्रकृतिप्रदेशबन्धं योगेभ्यः कुरुते भृशम् । कषायेभ्यः पुनर्जीवो बन्धं स्थित्यनुभागयोः द्विसप्तरज्जुको लोक: सप्तरज्जुर्घनीकृतः । तद्दी(कप्रदेशाली तद्वर्गः प्रतरः पुनः ॥ १६८ ॥ ॥ १६९ ॥ ॥ १७० ॥ ।। १७१ ॥ ॥ १७२ ॥ ॥ १७३॥ ૧૯૧ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy