SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११४॥ ॥ ११५ ॥ ॥ ११६॥ ॥ ११७ ॥ ॥ ११८॥ ॥ ११९ ॥ तिर्यङ्नरायुषी चापि सुरनारकिकास्तथा । तिर्यग्द्वयं च सेवार्तं कुर्युस्तीव्ररसं त्रयम् सूक्ष्मसंपरायोऽपूर्वादिकश्च क्षपकावुभौ । द्वात्रिंशत्प्रकृतीस्तीवरसाः कुरुत एतकाः वैकियाहारकामर्त्ययुग्मानि त्रीणि तैजसम् । अगुरुलघु निर्माणं कार्मणं सुनभोगतिम् पञ्चेन्द्रियं पराघातं सुवर्णाश्चतुरस्रकम् । त्रसादिदशतीर्थोच्चोच्छ्वाससाताभिधा अपि (यु.) उद्योतं तमस्तमकाः सम्यग्दृष्टिसुराः पुनः । मनुष्यौदारिकद्वन्द्वे संहति चादिमामपि अप्रमत्तः सुरायुश्च शेषा मिथ्यादृशः पुनः । तीव्रानुभागाः कुर्वन्ति चातुर्गतिकजन्तवः स्त्याद्धित्रयमिथ्यात्वानन्तान्मन्दरसान् पुनः । अष्टौ करोति मिथ्यात्वी प्रस्थित: संयमं प्रति द्वितीयानथ विरतस्तृतीयान् देशसंयमी। शोकारती प्रमत्तश्चाप्रमाद्याहारकद्वयम् निद्राद्वयं भयं हास्यं रतिकुत्सोपघातकम् । असुवर्णचतुष्कं चापूर्वो मन्दरसं तथा ससंज्वलनपुंवेदं क्षपकश्चानिवृत्तिकः । पञ्च सूक्ष्मसंपरायी विघ्नान्यावरणान्यपि तिर्यङ्मांश्च विकलाक्षसूक्ष्मत्रयजीवितम् । तथा वैक्रियषट्कं च कुर्युर्मन्दानुभागकम् औदारिकद्वयोद्योते सुरनारकिका अपि । तमस्तमाभवास्तिर्यग्युग्मं नीचं च जन्तवः ।। १२० ॥ ।। १२१ ॥ ॥ १२२॥ || १२३ ॥ ॥ १२४ ॥ ।। १२५ ॥ ૧૮ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy