SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पराघातोच्छ्वासपञ्चेन्द्रियत्रसचतुष्कके । सागराणां परो बन्धः पञ्चाशीत्याधिकं शतम् सद्वात्रिंशच्छतं तेषां पुंस्युच्चैः सुभगत्रये । चतुरस्त्रे च संस्थाने शुभाकाशगतावपि अनाद्याकृतिसंहत्योराद्यजातिचतुष्टये । असाते कुनभोगत्यां नरकाहारकद्वये शुभोद्योतातपक्लीबस्त्रीयशः कीर्तिकर्मसु । स्थिरे स्थावरदशके रत्यरत्योर्द्वये द्वये समयादन्तर्मुहूर्तं यावद् बन्धः परः स्मृतः । वज्रऋषभनाराचे तीर्थे च मनुजद्वये औदारिकाङ्गोपाङ्गे च स त्रयस्त्रिंशदब्धिकः । आयुष्यन्तर्मुहूर्तं स्यात् कनिष्ठोऽपि जिने तथा रसोऽनुभागस्तद्बन्धस्तीव्रो मन्दश्च स द्विधा । अशुभानां संक्लेशेन विशुद्धया च शुभात्मनाम् गिरिभूमिरजोनीररेखासदृशचेष्टितैः । बन्धस्तस्य कषायैः स्याच्चतुर्भिश्च चतुर्विधैः अशुभानां चतुःस्थानादिः शुभानां तु सोऽन्यथा । एकस्थानो भवत्यत्र निम्बेश्वोः सहजो रसः पक्वो द्वित्रिचतुर्भागैर्भागशेषोऽशुभः शुभः । अशुभानां शुभानां च द्विस्थानप्रमुखो भवेत् देशघात्यावरणानि विघ्नसंज्वलनाः पुमान् । एकद्वित्रिचतुः स्थाना: शेषा द्विस्थानकादयः सुरा मिथ्यादृशस्तीव्रमेकाक्षस्थावरातपम् । तिर्यङ्नरा विकलाक्षसूक्ष्मादिनारकत्रयम् ૧૨૬ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १०२ ॥ ॥ १०३ ॥ ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६ ॥ ॥ १०७ ॥ ॥ १०८ ॥ ॥ १०९ ॥ ॥ ११० ॥ ॥ १११ ॥ ॥ ११२ ॥ ॥ ११३ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy