________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९० ॥
॥ ९१ ॥
|| ९२ ॥
।। ९३ ॥
।। ९४ ॥
॥ ९५ ।।
अनाद्याकृतिसंहत्यनन्तमिथ्यात्वनीचकैः । स्त्यानर्द्धिदुर्भगत्रिकक्लीबस्त्रीकुनभोगतेः अबन्धः पञ्चखेष्वेव शतं द्वात्रिंशताधिकम् । त्रयाणां भावनाथैवमबन्धानां यथाक्रमम् भोगापणे त्रयः पल्याः सौधर्मे पल्य एककः । भवप्रत्ययतः प्रान्ते सम्यक्त्वेन नृजन्मनि सर्वविरतिको भूत्वा मिथ्यात्वी भवप्रत्ययात् । ग्रैवेयकेऽन्तर्मुहूर्तो नैकत्रिंशत्समुद्रकः तत्र लब्ध्वा च सम्यक्त्वं विरतेन नृजन्मना । अन्तरितोऽनुत्तरस्वःसुरः षट्षष्टिसागरः स्पृष्टैकमुहूर्तमिश्रो मनुष्यो विरतः पुनः । अच्युते षट्षष्ट्यतरो विरतचिद्भवान्तरः सचतुष्पल्यमित्यब्धिशतं त्रिषष्टिसंयुतम् । अबन्धकाल: सप्तानां प्रकृतीनामुदीरितः षष्ट्यां नारकिको जन्मप्रत्ययात् सद्विविंशतिम् । प्रतिपाल्य पयोधीनां सदेशविरतः पुनः सौधर्मेऽथ चतुष्पल्यायुःसुरः पूर्वकालयुक् । एवं तु सचतुष्पल्यं पञ्चाशीत्याधिकं शतम् द्वात्रिंशं शतमब्धीनामबन्धः पञ्चविंशतेः । अधिको नृभवैर्देवभवैः सम्यक्त्वसंयुतैः परो बन्धस्त्रय: पल्या: सुरे वैक्रिययुग्मके। समयादसंख्यकालं नीचे तिर्यग्द्वयेऽपि च पूर्वकोटी सुखे न्यूनान्तर्मुहूर्त तथायुषि । औदारिके परावर्ताः पुद्गलानामसंख्यकाः
॥ ९६ ।।
॥ ९७ ॥
॥ ९८ ॥
।। ९९ ॥
॥ १०० ॥
॥ १०१ ॥
૧૮૫
For Private And Personal Use Only