SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मिथ्यात्वे सप्ततिः पञ्चदश स्त्रीसातनृद्वये । कोटी कोट्यस्तथासु द्विचत्वारिंशति विंशतिः नरकौदारिकतिर्यग्वैक्रिययुग्मनीचकैः । भीशोकारतिकुत्सासु गुरुकर्कशरूक्षके दुर्गन्धेऽस्थिरषट्के च चतुष्के च त्रसादिके । स्थावरे कुनभोगत्याद्यान्त्यजातिनपुंसके निर्माणोपघातागुरुलघुतैजसकार्मणे । शीतस्पर्शे पराघातोच्छ्वासोद्योतातपेष्वपि यत्र यावत्कोटाकोट्यस्तावद्वर्षशतानि तु । तत्राबाधा विना तां तु निषेककाल उच्यते अन्तःकोटाकोटि ज्येष्ठा तीर्थाहारकयुग्मयोः । अन्तर्मुहूर्तं चाबाधा हीना संख्यगुणैर्लघुः बध्नन्ति विकलैकाक्षाः पूर्वकोटीं परां स्थितिम् । पल्यासंख्यांशतुल्यानि चत्वार्यायूंष्यमानसाः अबाधा खलु षण्मासान्निरुपक्रमजीविनाम् । अन्येषां तु भवत्र्यंशं जघन्यान्तर्मुहूर्तिकी जघन्यस्थितिबन्धोऽथ लोभे संज्वलनाभिधे । दर्शनज्ञानविघ्नेषु भवेदान्तर्मुहूर्तिकः Acharya Shri Kailassagarsuri Gyanmandir साते द्वादश मुहूर्तान्यष्यै च यश उच्चयोः । द्वयेकार्धकान् क्रमान्मासांस्त्रिषु संज्वलनेषु तु अष्यै वर्षाणि पुंवेदे शेषासु स्यात्तदेव यत् । विभक्ताया मिथ्यात्वोरुस्थित्या लब्धं गुरुस्थिते: एकाक्षेष्वयमुत्कृष्टः पल्यासंख्यांशहीनकः । लघुर्बन्धः पुनस्तेषु विकलाक्षामन:स्वयम् ૧૯૧ For Private And Personal Use Only ॥ ४२ ॥ ॥ ४३ ॥ ।। ४४ ।। ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥ 1186 11 ॥ ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy